पूर्वम्: ३।२।१५९
अनन्तरम्: ३।२।१६१
सूत्रम्
सृघस्यदः क्मरच्॥
३।२।१६०
काशिका-वृत्तिः
सृघस्यदः क्मरच्
३।२।१६०
सृ घसि अद इत्येतेभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु क्मरच् प्रत्ययो भवति। सृमरः। घस्मरः। अद्मरः।
बाल-मनोरमा
सृघस्यदः क्मरच्
९४२, ३।२।१६०
सृघस्यदः। सृ, घसि, अद् एषां द्वन्द्वात्पञ्चमी। घसिः प्रकृत्यन्तरम्।